Prashnopanishat Shaankara Bhashya
Audio With External Links Item Preview

Share or Embed This Item
- Publication date
- 2020-05-04
- Item Size
- 178.6M
श्रीमत्भगवत्पादशंकराचार्यविरचितम् प्रश्नोपनिषद्भाष्यं जनानां नित्यपारायणसौकर्यार्थम् अधुना समर्प्यते । अस्मिन्मुद्रितध्वनौ भाष्यगाम्भीर्यं, वेदान्तगर्भगतगूढार्थं, संदिह्यमानवाक्यानां श्रुतिस्मृतिन्यायलोकोदाहरणैः विचारपूर्वकसमाधानं, पुष्कलवेदान्तवाक्यनिदर्शनपूर्वकं प्रतिज्ञातं जीवब्रह्मैक्यनिरूपणम्, पूर्वापरविरोधाभासपरिहारः, स्वमतपरिपन्थिभूतान्यमतखंडनद्वारा अद्वैतराजमार्गसुस्थापनम् एतत्सर्वं श्रोतृभिः आकलयितुं शक्यते यद्यपि, तथापि भाष्यज्ञानं गुरुशिष्यपरम्परापुरस्कारेण गुरुमुखात् श्रुत्वा अध्ययनपूर्वकमेव संपाद्यं इति आर्षरीतिः।
ईश्वरसमर्पणभावनया कृतं सर्वं कर्म नित्यं नैमित्तिकं काम्यमपि चित्तशुद्धये हेतुर्भवति। तदनु विवेक- वैराग्य-शमदमोपरति-तितीक्षा-श्रद्धा-समाधानाख्य-षट्संपत्तिं मुमुक्षुत्वं च सम्पाद्य प्राप्ताधिकारत्वात् ससन्यासं चित्तं वेदांतश्रवणे निवेशयितव्यम्। श्रवणमनननिदिध्यासनानि तु अधिकारतारतम्येन झटिति वा जन्मान्तरे वा ज्ञानप्राप्तिद्वारा मोक्षं जनयन्ति । अतः अधिकारिणा आचार्योपदेशानंतरं श्रवणादिकं आवर्तनीयं यतः अनादिजन्मप्रवृत्तसर्वाध्यासानां समूलनिवृत्तिः कदा भविष्यति इति स्वानुभवं विना न प्रमाणयितुं पार्यते।
निरन्तरात्मानुसंधानस्यैव भक्तिरित्यपराऽऽख्या। तच्च श्री गुरुमुखात्श्रुतस्य अद्वितीयवस्तुनः वेदान्तानुगुणयुक्तिभिः अनवरतं अनुचिन्तनं पौनःपुन्येन संपादितैः श्रवणादिसाधनैः साध्यम्। अस्मिन्कार्ये जिज्ञासूनां मुमुक्षूणां च नित्यपारायणम् अवश्यं कार्यम्। तदेव सुलभं भवत्विति मनीषया एषः श्रवणप्रकारोऽत्र स्थापितः।
अयं श्रवणप्रकारः श्रीमन्नारायणाश्रम महास्वामिनाम् चरणारविन्दयोः चतुर्थपुष्परूपेण समर्प्यते।
4/108
ॐ सुज्ञानाम्बुधिचन्द्रमसे नमः
I offer obeisance to ShrI ShankarA, who is the full moon showering the cool rays of auspicious knowledge of brahman to his disciples.
- Addeddate
- 2020-05-04 16:37:26
- Identifier
- prashna-bhashya-01
- Scanner
- Internet Archive HTML5 Uploader 1.6.4
- Year
- 2020
comment
Reviews
There are no reviews yet. Be the first one to
write a review.
218 Views
DOWNLOAD OPTIONS
IN COLLECTIONS
Community AudioUploaded by sadashivashrama on